(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.6. अध्यायः 006
Mahabharata - Bhishma Parva - Chapter Topics
संजयेन भारतादिनवखण्डानां तत्तत्सीमापर्वतानां मेरोश्च वर्णनम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

धृतराष्ट्र उवाच। 6-6-0x(3967)(38820)
उक्तो द्वीपस्य संक्षेपो विधिवद्बुद्धिमंस्त्वया।
तत्त्वज्ञश्चासि सर्वस्य विस्तारं ब्रूहि सञ्जय ॥ 6-6-1(38821)
यावान्भूम्यवकाशोऽयं दृश्यते शशलक्षणे।
तस्य प्रमाणां प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ॥ 6-6-2(38822)
वैशम्पायन उवाच। 6-6-3x(3968)
एवं राज्ञा स पृष्टस्तु संजयो वाक्यमब्रवीत्। 6-6-3xa संजय उवाच।
प्रागायता महाराज षडेते वर्षपर्वताः ।
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥ 6-6-3(38823)
हिमवान्हेमकूटश्च निषधश्च नगोत्तमः।
नीलश्च वैदूर्यमयः श्वेतश्च शशिसन्निभः ॥ 6-6-4(38824)
सर्वधातुविचित्रश्च श्रृङ्गवान्नाम पर्वतः।
एते वै पर्वता राजन्सिद्धचारणसेविताः ॥ 6-6-5(38825)
एषामन्तरविष्कम्भा योजनानि सहस्रशः।
तत्र पुण्या जनपदास्तानि वर्षाणि भारत ॥ 6-6-6(38826)
वसन्ति तेषु सत्वानि नानाजातीनि सर्वशः ।
इदं तु भारतं वर्षं ततो हैमवतं परम् ॥ 6-6-8a` ततः किंपुरुषावासं वर्षं हिमवतः परम्'।
हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ॥ 6-6-7(38827)
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु।
व्रागायतो महाभाग माल्यवान्नाम पर्वतः ॥ 6-6-9(38828)
ततः परं माल्यवतः पर्वतो गन्धमादनः ।
परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः ।
तरुणादित्यसंकाशो विधूम इव पावकः ॥ 6-6-10(38829)
योजनानां सहस्राणि षोडशाधः किल स्मृतः ।
ऊर्ध्वं च चतुरशीतिर्द्वात्रिंशन्मूर्ध्नि विस्तृतः।
अधस्ताच्चतुरशीतिर्योजनानां महीपते॥ 6-6-11(38830)
ऊर्ध्वंमधश्च तिर्यक्व मेरुरावृत्य तिष्ठति ।
तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः सस्थिता विभो ॥ 6-6-12(38831)
भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत।
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥ 6-6-13(38832)
विहगः सुमुखो यस्तु सुपर्णस्यात्मजः किल।
स वै विचिन्तयामास सौवर्णान्वीक्ष्य वायसान् ॥ 6-6-14(38833)
मेरुरुत्तममध्यानामधमानां च पक्षिणाम्।
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥ 6-6-15(38834)
तमादित्योऽनुपर्येति सततं ज्योतिषां वरः।
चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः ॥ 6-6-16(38835)
सपर्वतो महाराज दिव्यपुष्पफलान्वितः।
भवनैरावृतः सर्वैर्जाम्बूनदपरिष्कृतैः ॥ 6-6-17(38836)
तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः।
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्वदा ॥ 6-6-18(38837)
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः।
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ॥ 6-6-19(38838)
तुम्बुरुर्नारदश्चैव विश्वावसुर्हहाहुहूः ।
अभिगम्यामरश्रेष्ठांस्तुष्टुवुर्विविधैः स्तवैः ॥ 6-6-20(38839)
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः ।
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ॥ 6-6-21(38840)
तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते ।
इमानि तस्य रत्नानि तस्येमे रत्नपर्वताः ॥ 6-6-22(38841)
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्रुते ।
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥ 6-6-23(38842)
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमैश्चितम्।
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ॥ 6-6-24(38843)
तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः ।
उमासहायो भगवान्रमते भूतभावनः ॥ 6-6-25(38844)
कर्णिकारमयी मालां बिभ्रत्पादावलम्बिनीम् ।
त्रिभिर्नेत्रैः कृतोद्योतस्त्रिभिः सूर्यैरिवोदितैः ॥ 6-6-26(38845)
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः ।
पश्यन्ति नहि दुर्वृत्तैः शक्यो द्रुष्टुं महेश्वरः ॥ 6-6-27(38846)
तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर।
विश्वरूपाऽपरिमिता भीमनिर्घातनिःस्वना ॥ 6-6-28(38847)
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा ।
प्लवन्तीव प्रवेगेन ह्रदे चन्द्रमसः शुभे ॥ 6-6-29(38848)
तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ।
तां धारयामास तदा दुर्धरां पर्वतैरपि ॥ 6-6-30(38849)
शतं वर्षसहस्राणां शिरसैव महेश्वरः ।
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते ॥ 6-6-31(38850)
जम्बूखण्डे तु तत्रैव महाजनपदो नृप ।
आयुर्दशसहस्राणि वर्षाणां तत्र भारत ॥ 6-6-32(38851)
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ।
अनामया वीतशोका नित्यं मुदितमानसाः ॥ 6-6-33(38852)
जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः ।
गन्धमादनश्रृङ्गेषु कुबेरः सह राक्षसैः ॥ 6-6-34(38853)
संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः ।
गन्धमादनपार्श्वे तु पर त्वपरगण्डिकाः ॥ 6-6-35(38854)
एकादशसहस्राणि वर्षाणां परमायुषः ।
तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः ।
स्त्रियश्चोत्पलवर्णाभाः सर्वाः सुप्रियदर्शनाः ॥ 6-6-36(38855)
नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम्।
वर्षमैरष्वतं राजन्नानाजनपदावृतम् ॥ 6-6-37(38856)
धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे।
इलावृत्तं मध्यमं तु पञ्च दीर्घाणि चैव हि ॥ 6-6-38(38857)
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः ।
आयुःप्रमाणमारोग्यं धर्मतः कामतोऽर्थतः॥ 6-6-39(38858)
समन्वितानि भूतानि तेषु वर्षेषु भारत।
एवमेषा महाराज पर्वतैः पृथिवी चिता ॥ 6-6-40(38859)
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः । 6-6-41bयत्र वैश्रवणो राजन्गुह्यकैः सह मोदते ॥ 6-6-41(38860)
तत्र देवो महादेवो नित्यमास्ते सहोमया।
शीते शिलातले रम्ये देवर्षिगणपूजितःक ॥ 6-6-42(38861)
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति।
हिरण्यश्रृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥ 6-6-43(38862)
तस्य पार्श्वे महद्दिव्यं शुभ्रं काञ्चनवालुकम् ।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥ 6-6-44(38863)
दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः।
यूपा मणिमयास्तत्र चैत्याश्चापि हिरण्मयाः ॥ 6-6-45(38864)
तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः।
स्रष्टा भूतपतिर्यत्र सर्वलोकान्सनातनान् ॥ 6-6-46(38865)
उपास्यते तिग्मतेजा यत्र भूतैः समन्ततः ।
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ॥ 6-6-47(38866)
तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता।
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते॥ 6-6-48(38867)
वस्वौकसारा नलिनी पावनी च सरस्वती ।
जम्बूनदी च सीता च गङ्गा सिंधुश्च सप्तमी ॥ 6-6-49(38868)
अचिन्त्या दिव्यसंकाशा प्रभोरेषैव संविधिः ।
उपासते यत्र सत्रं सहस्रयुगपर्यये ॥ 6-6-50(38869)
दृश्याऽदृश्या च भवति तत्र तत्र सरस्वती ।
एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ॥ 6-6-51(38870)
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः ।
सर्पा नागाश्च निषधे गोकर्णं च तपोवनम् ॥ 6-6-52(38871)
देवासुराणां सर्वेषां श्वेतपर्वत उच्यते।
गन्धर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा ।
श्रृङ्गवांस्तु महाराज देवानां प्रतिसंचरः ॥ 6-6-53(38872)
इत्येतानि महाराज सप्त वर्षाणि भागशः।
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ॥ 6-6-54(38873)
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी।
अशक्या परिसंख्यातुं श्रद्धेया तु बुभूषता ॥ 6-6-55(38874)
यां तु पृच्छसि मां राजन्दिव्यामेतां शशाकृतिम्।
पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे ।
कर्णौ तु शाकद्वीपश्च काश्यपद्वीप एव च ॥ 6-6-56(38875)
ताम्रपर्णीशिरो राजञ्छ्रीमान्मलयपर्वतः ।
एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ॥ ॥ 6-6-57(38876)

इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि षष्ठोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes
6-6-6 एवं दक्षिणां दिशमारभ्य यावदुत्तरसमाप्ति षट्प्राक्पश्चिमास्थानानि भवन्ति। तेषां स्थानानां वर्षाख्यानामन्तरमाह एषामिति। विष्कम्भो विस्तारः ॥ 6-6-7 वसन्त्येषु तानि वर्षाणीति योगान्तरमाह वसन्तीति। हिमवतो दक्षिणे भारतं वर्षं उत्तरतो हैमवतं वर्षं द्वितीयम्। अस्यैव नामान्तरं किंपुरुषावासमिति ॥ 6-6-8 हेमकूटनिषधयोर्मध्ये हरिवर्षम्। निषधनीलयोर्मध्ये वर्षविभागमाह दक्षिणेनेति। दक्षिणेन दक्षिणतः समीप इत्यर्थः । एवमुत्तरेणेत्यादौ ज्ञेयम् ॥ 6-6-9 नीलनिषधयोर्मध्ये मेरुस्तस्य प्राक् माल्यवान् पूर्वसमुद्रावधिः। पश्चिमसमुद्रावधिर्गन्धमादन इत्यर्थः ॥ 6-6-12 तस्य पार्श्वेष्विति। पार्श्वेषु चतुर्दिक्षु। द्वीपा इव द्वीपाः नद्यन्तरत्वाद्वर्षाणि ॥ 6-6-13 भद्राश्वादिसाहचर्याज्जम्बूद्वीपशब्दोऽत्र भरतवर्षपरस्तस्य तत्सारत्वज्ञापनार्थः । तानेव स्तौति कृतपुण्यप्रतिश्रया इत्यादिना । कृता विहिताः पुण्यैः पुण्यवद्भिः प्रतिश्रया आश्रमा येषु ते ॥ 6-6-16 तं मेरुमादित्योऽनुपर्येति प्रदक्षिणीकरोति ॥ 6-6-22 काव्यः कविश्रेष्ठः शुक्रो रमत इति शेषः। तस्य काव्यस्य ॥ 6-6-23 तस्मात् काव्यात् । ततः कुबेरात् । कलांशं षोडशभागस्यापि लेशम् ॥ 6-6-28 क्षीरवत् श्वेता धारा यस्याः सा गङ्गा। विश्वरूपा विश्वो विष्णुस्तद्रूपा। तथाच स्मरन्ति- योसौ सर्वगतो विष्णुश्चित्वरूपी निरञ्जनः। स एव द्रवरूपेण गाङ्गाम्भो कनात्र संशय इति ॥ 6-6-30 तयैव प्रवेगेन मेरुप्राकारात् पतनजनितबलेन खनन्त्या स ह्रद उत्पादित इति संबन्धः ॥ 6-6-35 अपरगण्डिकाः अन्ये गन्धमादनस्यैवावयवभूता बुद्बुदोपमाः क्षुद्रशैलाः । गण्डो भूषणबुद्ब्रदे इति मेदिनी । स्वार्थिकः कः ॥ 6-6-36 उत्पलवर्णेन आभान्ति ताः उत्पलवर्णाभाः ॥ 6-6-37 एवं हिमवतो दक्षिणे भरतवर्षं। तदुत्तरे हैमवतं वर्ष। हेमकूटादुत्तरे हरिवर्षं। निषधादुत्तरे नीलाच्च दक्षिणे मेरोः परित इलावृतमेकमेव चतुर्थं वर्षं। अत्रैव केचिद्भद्राश्वकेतुमालयोर्वर्ष्नान्तरत्वं प्रकल्प्य नववर्षाणीत्याचक्षते। ततो नीलात्पर्वतात् उत्तरतः श्वेतं पञ्चमं वर्षं। श्वेतात्पर्वतादुत्तरतो हैरण्यकं वर्षं षष्ठम्। ततः शृङ्गवत्पर्वतात् ऐरावतं सप्तमं वर्षम् ॥ 6-6-38 धनुःसंस्थे धनुराकारे। एवमाकारं दक्षिणे भरतवर्षं उत्तरे ऐरावतं च मध्ये पञ्चेति सप्तवर्षाणि ॥ 6-6-41 हेमेति हेमकूटएव कैलासः तस्योत्तरे मैनाकः तस्योत्तरतो हिरण्यशृङ्गः एतयोरन्तराले बिन्दुसरोऽस्तीति श्लोकत्रयार्थः ॥ 6-6-50 प्रभोरीश्वरस्य एष सप्तनद्यात्मकः संविधिः समीचीनं लोकोपकारार्थं विधानम्। एषैवेति संधिरार्षः ॥ 6-6-53 श्वेतपर्वतः स्थानमिति शेषः। गन्धर्वा वसन्तीति शेषः। प्रतिसंचरः व्यवहारस्थानम् ॥ 6-6-54 इतीति। वर्षाणि तत्र उपनिविष्टानि गतिमन्ति जङ्गमानि ध्रुवाणि स्थावराणि च सर्वाणि भूतान्येव। सर्वं दृश्यं आश्रयाश्रितरूपं पाञ्चभौतिकमेवेत्यर्थः ॥ 6-6-55 बुभूषता श्रेयःप्राप्तुमिच्छता श्रद्धेया ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.